किष्किन्धा-काण्ड > सुग्रीव का वैर का कारण बताना
Sugreeva reports the incident that sparked off the indignation and ire of Vali
towards Sugreeva. Sugreeva describes to Rama about the strength and heartless nature of Vali, with
a kind of indirect portrayal of his enemy's capabilities.
वाली नाम मम भ्राता ज्येष्ठः शत्रु निषूदनः |
पितुः बहुमतः नित्यम् मम च अपि तथा पुरा || ४-९-१
पितुः बहुमतः नित्यम् मम च अपि तथा पुरा || ४-९-१
"Oh, great enemy destroyer Rama, my elder brother Vali is a very dear one to our
father, and even for me too he was so, earlier. [4-9-1]
पितरि उपरते तस्मिन् ज्येष्ठो अयम् इति मंत्रिभिः |
कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः || ४-९-२
कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः || ४-९-२
After the demise of our father all the ministers have glorified him immensely and
made him the king of all the monkeys as he is the elder. [4-9-2]
राज्यम् प्रशासतः तस्य पितृ पैतामहम् महत् |
अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः || ४-९-३
अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः || ४-९-३
While he was ruling the great kingdom of my father and forefathers, I have always
bowed down to him like a servant and stood by him. [4-9-3]
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः |
तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा || ४-९-४
तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा || ४-९-४
There was a fierce demon named Maayaavi, the elder brother of Dundubhi and the son
of one demon named Maya. There was a great enmity between this Maayaavi and Vali owing to some
female. [4-9-4]
स तु सुप्ते जने रात्रौ किष्किन्धा द्वारम् आगतः |
नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे || ४-९-५
नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे || ४-९-५
He that Maayaavi arrived at the doors of Kishkindha in a night when the people are
sleeping, and blared very much inviting Vali for a fight. [4-9-5]
प्रसुप्तः तु मम भ्राता नर्दितो भैरव स्वनम् |
श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा || ४-९-६
श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा || ४-९-६
Then my brother who was also sleeping well, on hearing that bellowing in a
clamouring voice, did not tolerate and came out speedily. [4-9-6]
स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुरोत्तमम् |
वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना || ४-९-७
वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना || ४-९-७
Though the females and myself bowed reverently to prevent Vali, he came out of
palace in all his anger to kill that great demon. [4-9-7]
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः |
ततः अहम् अपि सौहार्दान् निःसृतः वालिना सह || ४-९-८
ततः अहम् अपि सौहार्दान् निःसृतः वालिना सह || ४-९-८
But Vali spurned all of us away and forged ahead, and then I also have started to go
along with Vali in all my predisposition. [4-9-8]
स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् |
असुरो जात संत्रासः प्रदुद्राव तदा भृशम् || ४-९-९
असुरो जात संत्रासः प्रदुद्राव तदा भृशम् || ४-९-९
A great fear was induced in that demon on seeing my brother and me too coming from a
distance, and then he quickly ran away. [4-9-9]
तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ |
प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा || ४-९-१०
प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा || ४-९-१०
While he is running away in fear we quickly followed him on a path that is barely
lit by moonlight of the moon who is just coming up. [4-9-10]
स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् |
प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ || ४-९-११
प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ || ४-९-११
That demon speedily entered an un-enterable cavity under the ground, covered with
grass, and we too having reached there speedily stood at the aperture of that cavity for a while.
[4-9-11]
तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष वशम् गतः |
माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः || ४-९-१२
माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः || ४-९-१२
Then Vali has gone into the enfoldment of fury on observing the entry of that demon
into the hole, whereby his senses felt outraged, and he said this sentence to me. [4-9-12]
इह तिष्ठ अद्य सुग्रीव बिल द्वारि समाहितः |
यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् || ४-९-१३
यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् || ४-९-१३
Then Vali said to me, "Now you stay here on the alert, Sugreeva, at the entrance of
this hole till I return on destroying the enemy in a fight on my entering this hole..."
[4-9-13]
मया तु एतत् वचः श्रुत्वा याचितः स परंतपः |
शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः || ४-९-१४
शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः || ४-९-१४
On hearing those words I requested him to allow me too to come in to the hole, but
he being the great tormentor of his enemies disallowed it, and he made me to swear on his feet and
entered that hole. [4-9-15]
तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः |
स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत || ४-९-१५
स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत || ४-९-१५
Well over a year is over after his entering into that cleavage, and to me too who
stayed at the entrance of the cleavage that much time had passed away. [4-9-15]
अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत संभ्रमः |
भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः || ४-९-१६
भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः || ४-९-१६
I thought I lost him for my brother is unseen, and in all fondness towards him my
mind started to doubt about some harm might have befallen on him. [4-9-16]
अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् |
सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः || ४-९-१७
सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः || ४-९-१७
After a long time blood with foam gushed out that hole, and on seeing it I was
deeply saddened. [4-9-17]
नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः |
न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः || ४-९-१८
न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः || ४-९-१८
Sounds of screaming demon came to my ear, but the screeches of my brother who is
involved in fight are unheard, in the least. [4-9-18]
अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् |
पिधाय च बिल द्वारम् शिलया गिरि मात्रया || ४-९-१९
शोकार्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे |
गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ||४-९-२०
पिधाय च बिल द्वारम् शिलया गिरि मात्रया || ४-९-१९
शोकार्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे |
गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ||४-९-२०
Oh, friend, Rama... I have surmised and concluded in mind by the indications that my
brother is finished, and covered the cavity's opening with a mountain similar boulder, and
performed water oblations to my deceased brother with saddening pain, and then returned to
Kishkindha. But the ministers have persuaded and heard from me the actual happening though I was
concealing it. [4-9-19, 20]
ततः अहम् तैः समागम्य समेतैः अभिषेचितः |
राज्यम् प्रशासतः तस्य न्यायतो मम राघव || ४-९-२१
आजगाम रिपुम् हत्वा दानवम् स तु वानरः |
राज्यम् प्रशासतः तस्य न्यायतो मम राघव || ४-९-२१
आजगाम रिपुम् हत्वा दानवम् स तु वानरः |
Then duly summoned by all of those ministers I was crowned, and while I was ruling
the kingdom judiciously, oh, Raghava, that semi-human Vali returned on killing that demoniac enemy.
[4-9-21, 22a]
अभिषिक्तम् तु माम् दृष्ट्वा कोपात् संरक्त लोचनः || ४-९-२२
मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् |
मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् |
But on seeing me crowned his eyes were reddened in anger, and he arrested all my
ministers as he spoke rudely. [4-9-22b, 23a]
निग्रहे च समर्थस्य तम् पापम् प्रति राघव || ४-९-२३
न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता |
न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता |
And oh, Raghava, though I was capable enough to counter him, my reason was
controlled by my esteem to brotherhood, and I was indisposed to commit that sin of defying
brotherhood. [4-9-23b, 24a]
हत्वा शत्रुम् सः मे भ्राता प्रविवेश पुरम् तदा || ४-९-२४
मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् |
उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना || ४-९-२५
मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् |
उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना || ४-९-२५
He that brother of mine entered the capital thus on destroying the enemy, and I
hailed him as usual while respecting that audacious soul, but his inner self is unsatisfied and I
remained unblest. [4-9-24b, 25]
नत्वा पादौ अहम् तस्य मुकुटेन अस्पृशम् प्रभो |
अपि वाली मम क्रोधात् न प्रसादम् चकार सः || ४-९-२६
अपि वाली मम क्रोधात् न प्रसादम् चकार सः || ४-९-२६
Oh, lord Rama, though I bowed with the crown touching his feet, he that rancorous
Vali showed no quarter towards me." So said Sugreeva to Rama. [4-9-25]
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे नवमः सर्गः |