किष्किन्धा-काण्ड > अंगद का सम्पाती को पर्वत से उतार के पूरा वृत्तांत बताना
Angada informs Sampaati of their plight in searching for Seetha. As a part of it, he
also details the plight of Rama. He explains that Seetha is unseen even after their meticulous
search, thereof they transgressed the order of Sugreeva, thereby they did not return to Kishkindha,
and therefore they resorted to fast-unto-death.
शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः |
श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः || ४-५७-१
श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः || ४-५७-१
Though Sampaati's voice is turned husky by his sadness for the demise of his brother
Jataayu, the monkey commanders doubtingly disbelieved neither him nor even his words by the fact of
his being an eagle intending to kill and eat up all the monkeys. [4-57-1]
ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः |
चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति || ४-५७-२
चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति || ४-५७-२
On seeing the eagle those fly-jumpers who sat for fast-unto-death have become
furious at the eagle thinking that, "that eagle wishes to eat up all of us..." Thus, the monkeys
deliberated the eagle's words. [4-57-2]
सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति |
कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः || ४-५७-३
कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः || ४-५७-३
"We are sitting for fast-unto-death and if that eagle wishes eat us let it be so...
then our deliverance will be achieved in anyway and we will go to heaven from here..." Thus, some
other monkeys gave thought to lower that eagle down. [4-57-3]
एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः |
अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा || ४-५७-४
अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा || ४-५७-४
When all of the monkey chiefs made up their mind in this way, then some of them on
going to the mountaintop brought that eagle down, and then Angada spoke to the eagle. [4-57-4]
बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् |
मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ || ४-५७-५
सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ |
लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम || ४-५७-६
मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ || ४-५७-५
सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ |
लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम || ४-५७-६
"Oh, bird, my noble grandfather is known as Rikshaja who was a valorous and an
outstanding monkey among all monkeys, was the king of monkeys. He has two generous and great mighty
sons namely Vali and Sugreeva. My father Vali was highly renowned in the world for his bold acts,
and he became the king later to my grandfather... [4-57-5, 6]
राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः |
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् || ४-५७-७
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया |
पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः || ४-५७-८
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् || ४-५७-७
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया |
पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः || ४-५७-८
"Among Ikshvaku-s there is a great-charioteer, a king for the entire world, a
peerless person, and he is the son of Dasharatha, namely Rama, and abiding by his father's
directives and opting for righteous course of conduct, he moved into Dandaka forests along with his
brother Lakshmana and even with his wife Vaidehi... [4-57-7, 8]
तस्य भार्या जनस्थानात् रावणेन हृता बलात् |
रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् || ४-५७-९
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा |
रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् || ४-५७-९
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा |
"Ravana forcibly abducted his wife from Janasthaana, namely Seetha, the princess
from Videha kingdom, and a kingly eagle named Jataayu, who is a friend of Rama's father Dasharatha,
has seen her while she was being abducted by skyway. [4-57-9, 10a]
रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् |
परिश्रान्तः च वृद्धः च रावणेन हतो रणे || ४-५७-१०
परिश्रान्तः च वृद्धः च रावणेन हतो रणे || ४-५७-१०
"Jatayu is overly tired when he made Ravana's chariot defective and withheld
Maithili from abduction as he is senescent, then Ravana killed him in that conflict... [4-57-10b,
c]
एवम् गृध्रो हतः तेन रावणेन बलीयसा |
संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् || ४-५७-११
संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् || ४-५७-११
"Thus that eagle was killed by that mighty Ravana, but solemnised by the obsequies
performed by Rama, he departed on a sublime avenue to heavens... [4-57-11]
ततो मम पितृव्येण सुग्रीवेण महात्मना |
चकार राघवः सख्यम् सः अवधीत् पितरम् मम || ४-५७-१२
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह |
निहत्य वालिनम् रामः ततः तम् अभिषेचयत् || ४-५७-१३
चकार राघवः सख्यम् सः अवधीत् पितरम् मम || ४-५७-१२
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह |
निहत्य वालिनम् रामः ततः तम् अभिषेचयत् || ४-५७-१३
"Then Raghava made friendship with my paternal uncle Sugreeva, an intellectual
autocrat, and Sugreeva got my father killed. Since Sugreeva antagonised my father, my father
interdicted him along with his ministers, and Rama killed my father Vali and anointed Sugreeva...
[4-57-12, 13]
स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः |
राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् || ४-५७-१४
राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् || ४-५७-१४
"Rama enthroned Sugreeva as the ruler of all vanara-s and that king of all vanara
chiefs expedited all of us... [4-57-14]
एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः |
वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव || ४-५७-१५
वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव || ४-५७-१५
"Though we are spearheaded by Rama and though we searched thereabouts for Vaidehi at
the behest of Sugreeva, as with a nightly sunshine Vaidehi is unattainable for us... [4-57-15]
ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः |
अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् || ४-५७-१६
अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् || ४-५७-१६
"Such as we were we searched Dandaka forest very meticulously, but we unwittingly
entered into a wide-opened Black Hole of the earth... [4-57-16]
मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् |
व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः || ४-५७-१७
व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः || ४-५७-१७
"During our search in that Black Hole, which was crafted by the wizardry of demon
Maya, the month fixed by our king for our return has been elapsed... [4-57-17]
ते वयम् कपि राजस्य सर्वे वचन कारिणः |
कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः || ४-५७-१८
कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः || ४-५७-१८
"We who are all supposed to execute the order of our king, we have exceeded the
established norm of timeframe, and for fear of fury from our king Sugreeva we sat down for
fast-unto-death... [4-57-18]
क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे |
गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् || ४-५७-१९
गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् || ४-५७-१९
"When Rama along with Lakshmana, and even Sugreeva will be infuriated by our
infringement of time, and even on our going to Kishkindha, as infringers there will be no survival
for all of us..." Thus Angada narrated their plight to Sampaati. [4-57-19]
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्त पंचाशः सर्गः