अयोध्या-काण्ड > भरत की वनयात्रा और श्रंग्वेरपुर में रात्रि निवास
Leaving Ayodhya early next morning, accompanied by family-priests, ministers,
archers, elephants, cavalry, artisans, army and citizens and covering a long distance, Bharata
arrives at the bank of Ganga River at Sringaberapura ruled by guha and, encamping the army there,
breaks journey for offering libations to his deceased father on the bank of the Ganaga and also to
give rest to the retinue.
ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् |
प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया || २-८३-१
प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया || २-८३-१
Bharata rose up at day-break, mounted on excellent chariot and went quickly with a
desire to see Rama.
अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः |
अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् || २-८३-२
अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् || २-८३-२
All the ministers and priests ascended, chariots yoked with horses, resembling those
of the sun, and went ahead of Bharata.
नव नाग सहस्राणि कल्पितानि यथा विधि |
अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् || २-८३-३
अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् || २-८३-३
Nine thousand elephants suitably duly arranged escorted Bharata the joy of the
Ikshvaku dynasty, on his journey.
षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः |
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् || २-८३-४
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् || २-८३-४
Sixty thousand chariots filled with archers, furnished with weapons of various
kinds, followed the illustrious prince Bharata.
शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् |
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् || २-८३-५
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् || २-८३-५
A hundred thousand cavalry accompanied the moving Bharata, born in Raghu dynasty,
who was true to his promise and who subdued his senses.
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी |
राम आनयन सम्हृष्टा ययुर् यानेन भास्वता || २-८३-६
राम आनयन सम्हृष्टा ययुर् यानेन भास्वता || २-८३-६
Kaikeyi, Sumitra and the illustrious Kausalya rode in a resplendent chariot,
delighted as they were at the thought of Rama's return.
प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् |
तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः || २-८३-७
तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः || २-८३-७
The whole body of noble men with their jubiliant hearts followed Bharata to see Rama
again as also Lakshmana, recounting the marvelous exploits of that hero to each other saying:
मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् |
कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् || २-८३-८
कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् || २-८३-८
"When shall we see the mighty armed prince, of the hue of dark cloud, whose courage
is unshakable, of inflexible purpose Rama, who banished sorrow from the earth?"
दृष्टएव हि नः शोकम् अपनेष्यति राघवः |
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः || २-८३-९
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः || २-८३-९
"Beholding Rama, our entire sorrow will indeed be dispelled, as darkness of the
entire earth is dispelled at the rising of the sun."
इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः |
परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा || २-८३-१०
परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा || २-८३-१०
Thus did the citizens of Ayodhya recount happily of Rama's glorious deeds, and they
embraced each other as they went along.
ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः |
रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा || २-८३-११
रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा || २-८३-११
Those others who were held in high esteem, merchants and all common people proceeded
merrily to join Rama.
मणि काराः च ये केचित् कुम्भ काराः च शोभनाः |
सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः || २-८३-१२
मायूरकाः क्राकचिका रोचका वेधकाः तथा |
दन्त काराः सुधा काराः तथा गन्ध उपजीविनः || २-८३-१३
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः |
स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा || २-८३-१४
रजकाः तुन्न वायाः च ग्राम घोष महत्तराः |
शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा || २-८३-१५

Some lapidaries, skilled potters, those who lived by manufacture of arms,
carpenters, those who made various articles from peacock-feather, sawyers, workers in artificial
ornaments, those who pierced gems, pearls etc, those who made articles of ivory, those who lived by
perfumery, highly reputed goldsmiths, weavers of blankets and other wollen goods, those who
provided hot-water baths for other, physicians, distillers and vendors of spirituous liquors,
fumigators, washer-men, tailors, chiefs of villages and hamlets, dancers with their women-folk and
fishermen started on the journey.
समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः |
गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः || २-८३-१६
गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः || २-८३-१६
Thousands of Brahmanas, well-composed, renowned for their virtuous conduct, versed
in sacred scriptures and riding on bullock-carts, accompanied Bharata.
सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः |
सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः || २-८३-१७
सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः || २-८३-१७
All of them, attired in clean and fair raiment, anointed with pure red sandal-paste,
mounted on various kinds of vehicles, followed Bharata tranquilly.
प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् |
भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् || २-८३-१८
भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् || २-८३-१८
Exceedingly pleased and cheerful, that army escorted the son of Kaikeyi- Bharta who
was affectionate towards his brother and who had set out along with his family to bring his
brother, Rama.
ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः |
समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति || २-८३-१९
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः |
निवसत्यप्रमादेन देशम् तम् परिपालयन् || २-८३-२०
समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति || २-८३-१९
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः |
निवसत्यप्रमादेन देशम् तम् परिपालयन् || २-८३-२०
Having gone for a considerable distance in their chariots, carts, horses and
elephants, they reached the River Ganga close to the city of Shringaberapura, where the valiant
Guha, a bosom friend of Rama along with multitude of relatives was ruling that region
carefully.
उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् |
व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी || २-८३-२१
व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी || २-८३-२१
That army, which was accompanying Bharata, arrived at the bank of Ganga River,
looking beautiful as it was with Charka* birds and stopped there.
निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् |
भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः || २-८३-२२
भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः || २-८३-२२
Seeing the army behind, which accompanied him and the River Ganga in front with its
propitious waters, Bharata who was skillful in words, spoke to all his officers (as follows):
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः |
विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् || २-८३-२३
विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् || २-८३-२३
"It is my will that my army should take rest by all means. When they are refreshed
we shall cross the river tomorrow."
दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः |
और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् || २-८३-२४
और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् || २-८३-२४
"Meanwhile, descending into the river, I desire to make offering of the sacred water
as libation for the infinite spirit relating to the state after death, to the king Dasaratha who
has gone to heaven."
तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः |
न्यवेशयंस् तामः चन्देन स्वेन स्वेन पृथक् पृथक् || २-८३-२५
न्यवेशयंस् तामः चन्देन स्वेन स्वेन पृथक् पृथक् || २-८३-२५
Hearing these words from Bharata, the officers attentively answered, "Be it so" and
each of them encamped their respective forces in accord with his pleasure.
निवेश्य गन्गाम् अनु ताम् महा नदीम् |
चमूम् विधानैः परिबर्ह शोभिनीम् |
उवास रामस्य तदा महात्मनो |
विचिन्तयानो भरतः निवर्तनम् || २-८३-२६
चमूम् विधानैः परिबर्ह शोभिनीम् |
उवास रामस्य तदा महात्मनो |
विचिन्तयानो भरतः निवर्तनम् || २-८३-२६
Having meticulously arranged for encampment of the army which looked lovely along
Ganga that great river with the surrounding equipment (like tunts, furnishings etc), Bharata halted
then, reflecting as to how to bring back the magnanimous Rama.
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः